ENQUIRY geetanjaliglobalgurukulam
Sunday, 8 January 2023
Thursday, 5 January 2023
Tuesday, 3 January 2023
६ षष्ठदशकः - व्यासनारदसमागमः
६ षष्ठदशकः - व्यासनारदसमागमः
त्वदिच्छया देवि पुलस्त्यवाचा पराशराद्विष्णुपुराणकर्तुः ।
मुनेर्हरिर्लोकहिताय दीपाद्यथा प्रदीपोऽजनि कृष्णनामा ॥ ६-१॥
वेदं चतुर्धा व्यदधत्स कृष्णद्वैपायनो व्यास इति प्रसिद्धः ।
वेदान्तसूत्राणि पुराणजालं महेतिहासं च महांश्चकार ॥ ६-२॥
तपः प्रवृत्तः कलविङ्कपोतं मात्रा स संलालितमाश्रमान्ते ।
पश्यन्नधन्यामनपत्यतां स्वां सपुत्रभाग्यातिशयं च दध्यौ ॥ ६-३॥
सत्पुत्रलाभाय तपश्चिकीर्षुस्तीव्रं महामेरुसमीपमेत्य ।
आराधनीयः क इति क्षणं स चिन्ताऽऽतुरो लोकगुरुः स्थितोऽभूत् ॥ ६-४॥
श्रीनारदस्तत्र समागतस्त्वत्कृपाकटाक्षाङ्कुरवन्महर्षिः ।
अर्घ्यादिसम्पूजित आसनस्थो व्यासेन पृष्टः प्रहसन्निवाह ॥ ६-५॥
किं चिन्तया कृष्ण भजस्व देवीं कृपावती वाञ्छितदानदक्षा ।
अहेतुरेषा खलु सर्वहेतुर्निरस्तसाम्यातिशया निरीहा ॥ ६-६॥
सैषा महाशक्तिरिति प्रसिद्धा यदाज्ञया ब्रह्मरमेशरुद्राः ।
ब्रह्माण्डसर्गस्थितिसंहृतीश्च कुर्वन्ति काले न च ते स्वतन्त्राः ॥ ६-७॥
यस्याश्च ते शक्तिभिरेव सर्वकर्माणि कुर्वन्ति सुरासुराद्याः ।
मर्त्या मृगाः कृष्ण पतत्रिणश्च शक्तेर्विधेयाः क इहाविधेयः ॥ ६-८॥
प्रत्यक्षमुख्यैर्न च सा प्रमाणैर्ज्ञेया तपोभिः कठिनैर्व्रतैश्च ।
न वेदशास्त्राध्ययनेन चापि भक्त्यैव जानाति पुमान् महेशीम् ॥ ६-९॥
तामेव भक्त्या सततं भजस्व सर्वार्थदां कृष्ण तवास्तु भद्रम् ।
इत्यूचुषि ब्रह्मसुते गते स व्यासस्तपोऽर्थं गिरिमारुरोह ॥ ६-१०॥
इहास्मि पर्याकुलचित्तवृत्तिर्गुरुं न पश्यामि महत्तमं च ।
सन्मार्गतो मां नय विश्वमातः प्रसीद मे त्वां शरणं व्रजामि ॥ ६-११॥
devi narayaneeyam५ पञ्चमदशकः - सुद्युम्नकथा
५ पञ्चमदशकः - सुद्युम्नकथा
जाता सुतेला मनुसप्तमस्य संप्रार्थितोऽनेन मुनिर्वसिष्ठः ।
शम्भोः कटाक्षेण सुतां कुमारं चक्रे स कालेन बभूव राजा ॥ ५-१॥
सुद्युम्ननामा मृगयाविहारी गतो हयारूढ इलावृतं सः ।
स्त्रीत्वं पुनः प्राप्य सुतं हिमांशोर्वव्रे पतिं पुत्रमसूत चैषा ॥ ५-२॥
न्यवेदयत्सा गुरवे वसिष्ठायैषा कदाचिन्निजपुंस्त्वकामम् ।
तत्साधनार्थं हरमेव दध्यौ मुनिः प्रसन्नस्तमुवाच शम्भुः ॥ ५-३॥
इलावृतं मा पुरुषः प्रयातु प्रयाति चेत्सोऽस्त्वबला तदैव ।
एवं मया निश्चितमेव सौम्य गौर्याः प्रसादाय भवान् प्रियो मे ॥ ५-४॥
न पक्षभेदोऽत्र ममास्ति गौरी भवांश्च तृप्तौ भवतां मदीयौ ।
इतः परं तस्य मनोरपत्यं मासं पुमान् स्याद्वनिता च मासम् ॥ ५-५॥
एवं शिवोक्तेन मनोरपत्यं लब्ध्वा च पुंस्त्वं धरणीं शशास ।
स्त्रीत्वे च हर्म्येषु निनाय कालं जनो न चैनं नृपमभ्यनन्दत् ॥ ५-६॥
पुरूरवस्यात्मसुतेऽर्पयित्वा राज्यं विरक्तो वनमेत्य भूपः ।
श्रीनारदाल्लब्धनवार्णमन्त्रो भक्त्या स दध्यौ भवतारिणीं त्वाम् ॥ ५-७॥
सिंहाधिरूढामरुणाब्जनेत्रां त्वां सुप्रसन्नामभिवीक्ष्य नत्वा ।
स्तुत्वा च भक्त्या स्थिरपुंस्त्वमेष लेभेऽथ सायुज्यमवाप चान्ते ॥ ५-८॥
शौर्यं न वीर्यं न च पौरुषं मे नैवास्ति च स्त्रीसहजा तितिक्षा ।
मूढो न जानाम्यशुभं शुभं च देयं त्वया मे शुभमेव मातः ॥ ५-९॥
पश्यानि मातः प्रवरान्गुरूंस्ते कारुण्यतो मां सुपथा नयन्तु ।
सत्सङ्गसम्भावितचित्तवृत्तिर्भवानि ते देवि नमः प्रसीद ॥ ५-१०॥
devinarayaneeyam ४ चतुर्थदशकः - मधुकैटभवधः
४ चतुर्थदशकः - मधुकैटभवधः
त्वं तामसी सुप्तरमाधवाङ्गजा श्यामा रुचा मोहनताम्रलोचना ।
एकार्णवे घोररणोत्सुकान् हरिं दैत्यौ च तौ स्मेरमुखी समैक्षथाः ॥ ४-१॥
पश्यत्यजे बाहुरणं मुरारिणा कृत्वा मधुः श्रान्तिमवाप सत्वरम् ।
अभ्येत्य युद्धं कुरुते स्म कैटभः श्रान्ते च तस्मिन्नकृताहवं मधुः ॥ ४-२॥
एवं मुहुः सङ्गरविश्रमावुभौ पर्यायतो वर्षसहस्रपञ्चकम् ।
ग्लानिं विना चक्रतुरच्युतः क्लमाद्विश्रान्तिमिच्छन्नसुरौ जगाद तौ ॥ ४-३॥
श्रान्तेन भीतेन च बालकेन च प्रभुः पुमान्नैव करोति संयुगम् ।
मध्येरणं द्वौ कृतविश्रमौ युवामेकः करोम्येव निरन्तराहवम् ॥ ४-४॥
ज्ञात्वा हरिं श्रान्तमुभौ विदूरतः सन्तस्थतुर्विश्रमसौख्यवांस्ततः ।
त्वामेव तुष्टाव कृपातरङ्गिणीं सर्वेश्वरीं दैत्यजयाय माधवः ॥ ४-५॥
देवि प्रसीदैष रणे जितोऽस्म्यहं दैत्यद्वयेनाब्जभवं जिघांसुना ।
सर्वं कटाक्षैस्तव साध्यमत्र मां रक्षेति वक्तारमभाषथा हरिम् ॥ ४-६॥
युद्धं कुरु त्वं जहि तौ मया भृशं सम्मोहितौ वक्रदृशेत्ययं त्वया ।
सञ्चोदितो हृष्टमना महार्णवे तस्थौ रणायाययतुश्च दानवौ ॥ ४-७॥
भूयोऽपि कुर्वन् रणमच्युतो हसन् कामातुरौ ते मुखपद्मदर्शनात् ।
तावाह तुष्टोऽस्म्यतुलौ रणे युवां ददाम्यहं वां वरमेष वाञ्छितम् ॥ ४-८॥
तावूचतुर्विद्धि हरे न याचकावावां ददावस्तव वाञ्छितं वरम् ।
नासत्यवाचौ स्व इतीरितो हरिस्त्वां संस्मरन् शत्रुजिगीषयाऽब्रवीत् ॥ ४-९॥
मह्यं वरं यच्छतमद्य मे यतो वध्यौ युवां स्यातमितीरितावुभौ ।
दृष्ट्वाऽप्सु लीनं सकलं समूचतुस्त्वं सत्यवाङ्नौ जहि निर्जले स्थले ॥ ४-१०॥
अस्त्वेवमित्यादृतवाङ्मुदा हरिः स्वोरौ पृथावुन्नमिते जलोपरि ।
कृत्वाऽरिणा तच्छिरसी तदाऽच्छिनत्स्वच्छन्दमृत्यू तव मायया हतौ ॥ ४-११॥
द्वेषश्च रागश्च सदा ममाम्बिके दैत्यौ हृदि स्तोऽत्र विवेकमाधवः ।
आभ्यां करोत्येव रणं जयत्वयं तुभ्यं महाकालि नमः प्रसीद मे ॥ ४-१२॥
devi narayaneeyam३ तृतीयदशकः - महाकाल्यवतारः
३ तृतीयदशकः - महाकाल्यवतारः
जगत्सु सर्वेषु पुरा विलीनेष्वेकार्णवे शेषतनौ प्रसुप्ते ।
हरौ सुरारी मधुकैटभाख्यौ महाबलावप्सु विजह्रतुर्द्वौ ॥ ३-१॥
समाः सहस्रं यतचित्तवृत्ती वाग्बीजमन्त्रं वरदे जपन्तौ ।
प्रसादिताया असुरौ भवत्याः स्वच्छन्दमृत्युत्वमवापतुस्तौ ॥ ३-२॥
एकाम्बुधौ तौ तरलोर्मिमाले निमज्जनोन्मज्जनकेलिलोलौ ।
यदृच्छया वीक्षितमब्जयोनिं रणोत्सुकावूचतुरिद्धगर्वौ ॥ ३-३॥
पद्मासनं वीरवरोपभोग्यं न भीरुभोग्यं न वराकभोग्यम् ।
मुञ्चेदमद्यैव न यासि चेत्त्वं प्रदर्शय स्वं युधि शौर्यवत्त्वम् ॥ ३-४॥
इदं समाकर्ण्य भयाद्विरिञ्चः सुषुप्तिनिष्पन्दममोघशक्तिम् ।
प्रबोधनार्थं हरिमिद्धभक्त्या तुष्टाव नैवाचलदम्बुजाक्षः ॥ ३-५॥
अस्पन्दता त्वस्य कयापि शक्त्या कृतेति मत्वा मतिमान् विरिञ्चः ।
प्रबोधयैनं हरिमेवमुक्त्वा स्तोत्रैर्विचित्रैर्भवतीमनौषीत् ॥ ३-६॥
नुतिप्रसन्नाऽब्जभवस्य तूर्णं निःसृत्य विष्णोः सकलाङ्गतस्त्वम् ।
दिवि स्थिता तत्क्षणमेव देवो निद्राविमुक्तो हरिरुत्थितोऽभूत् ॥ ३-७॥
अथैष भीतं मधुकैटभाभ्यां विरिञ्चमालोक्य हरिर्जगाद ।
अलं भयेनाहमिमौ सुरारी हन्तास्मि शीघ्रं समरेऽत्र पश्य ॥ ३-८॥
एवं हरौ वक्तरि तत्र दैत्यौ रणोत्सुकौ प्रापतुरिद्धगर्वौ ।
तयोरविज्ञाय बलं मुरारिर्युद्धोद्यतोऽभूदजरक्षणार्थम् ॥ ३-९॥
बिभेमि रागादिमहारिपुभ्यो जेतुं यतिष्येऽहमिमान् सुशक्तान् ।
तदर्थशक्तिं मम देहि नित्यं निद्रालसो मा च भवानि मातः ॥ ३-१०॥
२ द्वितीयदशकः - हयग्रीवकथा
२ द्वितीयदशकः - हयग्रीवकथा
रणेषु दैत्येषु हतेषु देवाः पुरा प्रहृष्टाः सहदातृशर्वाः ।
यियक्षवो यज्ञपतिं विनीताः प्रपेदिरे विष्णुमनन्तवीर्यम् ॥ २-१॥
दृष्ट्वा च निद्रावशगं प्रभुं तमधिज्यचापाग्रसमर्पितास्यम् ।
आश्चर्यमापुर्विबुधा न कोऽपि प्राबोधयत्तं खलु पापभीत्या ॥ २-२॥
हरेस्तदानीमजसृष्टवम्र्या मुखार्पणाकुञ्चितचापमौर्वी ।
भग्ना धनुश्चार्जवमाप सद्यस्तेनाभवत्सोऽपि निकृत्तकण्ठः ॥ २-३॥
कायाच्छिरस्तूत्पतितं मुरारेः पश्यत्सु देवेषु पपात सिन्धौ ।
चेतः सुराणां कदने निमग्नं हाहेति शब्दः सुमहानभूच्च ॥ २-४॥
किमत्र कृत्यं पतिते हरौ नः कुर्मः कथं वेति मिथो ब्रुवाणान् ।
देवान् विधाताऽऽह भवेन्न कार्यमकारणं दैवमहो बलीयः ॥ २-५॥
ध्यायेत देवीं करुणार्द्रचित्तां ब्रह्माण्डसृष्ट्यादिकहेतुभूताम् ।
सर्वाणि कार्याणि विधास्यते नः सा सर्वशक्ता सगुणाऽगुणा च ॥ २-६॥
इत्यूचुषः प्रेरणया विधातुस्त्वामेव वेदा नुनुवुः सुराश्च ।
दिवि स्थिता देवगणांस्त्वमात्थ भद्रं भवेद्वो हरिणेदृशेन ॥ २-७॥
दैत्यो हयग्रीव इति प्रसिद्धो मयैव दत्तेन वरेण वीरः ।
वेदान् मुनींश्चापि हयास्यमात्रवध्यो भृशं पीडयति प्रभावात् ॥ २-८॥
दैवेन कृत्तं हरिशीर्षमद्य संयोज्यतां वाजिशिरोऽस्य काये ।
ततो हयग्रीवतया मुरारिर्दैत्यं हयग्रीवमरं निहन्ता ॥ २-९॥
त्वमेवमुक्त्वा सदयं तिरोधास्त्वष्ट्रा कबन्धेऽश्वशिरो मुरारेः ।
संयोजितं पश्यति देवसङ्घे हयाननः श्रीहरिरुत्थितोऽभूत् ॥ २-१०॥
दैत्यं हयग्रीवमहन् हयास्यो रणे मुरारिस्त्वदनुग्रहेण ।
सदा जगन्मङ्गलदे त्वदीयाः पतन्तु मे मूर्ध्नि कृपाकटाक्षाः ॥ २-११॥
devi narayaneeyam १ प्रथमदशकः - देवीमहिमा
१ प्रथमदशकः - देवीमहिमा
यस्मिन्निदं यत इदं यदिदं यदस्मात्
उत्तीर्णरूपमभिपश्यति यत्समस्तम् ।
नो दृश्यते च वचसां मनसश्च दूरे
यद्भाति चादिमहसे प्रणमामि तस्मै ॥ १-१॥
न स्त्री पुमान् न सुरदैत्यनरादयो न
क्लीबं न भूतमपि कर्मगुणादयश्च ।
भूमंस्त्वमेव सदनाद्यविकार्यनन्तं
सर्वं त्वया जगदिदं विततं विभाति ॥ १-२॥
रूपं न तेऽपि बहुरूपभृदात्तशक्ति-
र्नाट्यं तनोषि नटवत्खलु विश्वरङ्गे ।
वर्षाणि ते सरसनाट्यकलाविलीना
भक्ता अहो सहृदया क्षणवन्नयन्ति ॥ १-३॥
रूपानुसारि खलु नाम ततो बुधैस्त्वं
देवीति देव इति चासि निगद्यमाना ।
देव्यां त्वयीर्यस उमा कमलाऽथ वाग् वा
देवे तु षण्मुख उमापतिरच्युतो वा ॥ १-४॥
त्वं ब्रह्म शक्तिरपि धातृरमेशरुद्रैः
ब्रह्माण्डसर्गपरिपालनसंहृतीश्च ।
राज्ञीव कारयसि सुभ्रु निजाज्ञयैव
भक्तेष्वनन्यशरणेषु कृपावती च ॥ १-५॥
माता करोति तनयस्य कृते शुभानि
कर्माणि तस्य पतने भृशमेति दुःखम् ।
वृद्धौ सुखं च तव कर्म न नापि दुःखं
त्वं ह्येव कर्मफलदा जगतां विधात्री ॥ १-६॥
सर्वत्र वर्षसि दयामत एव वृष्ट्या
सिक्तः सुबीज इव वृद्धिमुपैति भक्तः ।
दुर्बीजवद्व्रजति नाशमभक्त एव
त्वं निर्घृणा न विषमा न च लोकमातः ॥ १-७॥
सर्वोपरीश्वरि विभाति सुधासमुद्र-
स्तन्मध्यतः परिवृते विविधैः सुदुर्गैः ।
छत्रायिते त्रिजगतां भवती मणिद्वी-
पाख्ये शिवे निजपदे हसिताननाऽऽस्ते ॥ १-८॥
यस्ते पुमानभिदधाति महत्त्वमुच्चै-
र्यो नाम गायति शृणोति च ते विलज्जः ।
यश्चातनोति भृशमात्मनिवेदनं ते
स स्वान्यघानि विधुनोति यथा तमोऽर्कः ॥ १-९॥
त्वां निर्गुणां च सगुणां च पुमान् विरक्तो
जानाति किञ्चिदपि नो विषयेषु सक्तः ।
ज्ञेया भव त्वमिह मे भवतापहन्त्रीं
भक्तिं ददस्व वरदे परिपाहि मां त्वम् ॥ १-१०॥
CLICK BELOW FOR RECITATION LESSONS
DEVINARAYANEEYAM LESSON DASAKAM1:1
DASAKAM1:2
DASAKAM1:3
DASAKAM1:4/1
DASAKAM1:4/2
Devi narayaneeyam lesson dasakam 1:5/1
Devi narayaneeyam lesson dasakam 1:5/2
Monday, 2 January 2023
Alamelumanga Nee Abhinava Roopamu lesson
Alamelumanga Nee Abhinava Roopamu
Annamayya Akshara Vedam Episode – 157
https://www.youtube.com/watch?v=ZGPnwkzr7Ms
॥పల్లవి॥
అలమేలుమంగ నీవభినవరూపము
జలజాక్షుకన్నులకు చవులిచ్చేనమ్మా
॥చ1॥
గరుడాచలాధీశు ఘన వక్షమున నుండి
పరమానందం సంభరితవై
నెరతనములు చూపి నిరంతరము నాథుని
హరుషించఁగఁ జేసితి గదమ్మా
॥చ2॥
శశికిరణములకు చలువల చూపులు
విశదముగా మీఁద వెదచల్లుచు
రసికత పెంపునఁ గరఁగించి యెప్పుడు నీ-
వశము చేసుకొంటి వల్లభునోయమ్మా
॥చ3॥
రట్టడి శ్రీ వేంకటరాయనికి నీవు
పట్టపురాణివై పరఁగుచు
వట్టిమాఁకులిగిరించు వలపుమాటల విభు
జట్టిగొని వురమున సతమైతివమ్మా
https://www.youtube.com/watch?v=Ll9ekWLvEss&list=PL4doz3WwRARDnJM--irYTAQE0yh-F6SSu&index=9
Alamelumanga Nee Abhinava Roopamu
🌺🍃🌺🍃🌺🍃🌺🍃🌺
Preface :-- 🌹 Annamacharya In This sankeertana praises all The Good gestures and virtues of Mother Alamelumanga , 🙏
and
praises her that , She could win the heart of The Lord 🙏 And
make him Obedient to her by showing all her Love and affection towards the Lord !🙏
Here Goes the keertana as below 🌹👇
🌺🍃🌺🍃🌺🍃🌺🍃🌺
🌹🌹
Oh Alamelumanga ! 🙏
Your EverNew Youthful Elegance Is The Reason For The Lustre in The Eyes
Of The Lotus Eyed Lord ! 🙏
🌹🙏🌹
🌹🌹
Be Being On The Broad Chest Of The Lord Of Garudadri Hill ,🙏
You Are Possessing , All The Supreme Joy Being With The Lord !🙏
Showing All Your Respectable Virtues Always To The Lord ,🙏
You Are Making Him To Be ,Pleasant And Glad Always ! Oh Mother !!🙏
🌹🙏🌹
🌹🌹
Your Graceful Looks Are Even Pleasant Than The Moon Light ! 🙏
With All Purity You Are Showering , Your Graceful Looks Upon The Lord !🙏
By Your Exceeding Art And Lovely Virtues , 🙏
And By Making His Heart Melting Towards You ,🙏
You Have Made The Lord To Be Always Humble With You ! Oh Mother !🙏
🌹🙏🌹
🌹🌹
To The Lord Sri Venkateswara
Who Is Openly Exposed To All , 🙏
You Are Always Existing With Him By Getting Crowned As His Consort !🙏
Your Lovely Talks Can Even
Sprout Up An Exhausted Tree Back ,🙏
With Such Lovely Gestures
You Are United With The Lord As his Consort ,🙏
By Staying In His Heart Always ! Oh Mother !!🙏
🌹🙏🌹
Subscribe to:
Posts (Atom)