४ चतुर्थदशकः - मधुकैटभवधः
त्वं तामसी सुप्तरमाधवाङ्गजा श्यामा रुचा मोहनताम्रलोचना ।
एकार्णवे घोररणोत्सुकान् हरिं दैत्यौ च तौ स्मेरमुखी समैक्षथाः ॥ ४-१॥
पश्यत्यजे बाहुरणं मुरारिणा कृत्वा मधुः श्रान्तिमवाप सत्वरम् ।
अभ्येत्य युद्धं कुरुते स्म कैटभः श्रान्ते च तस्मिन्नकृताहवं मधुः ॥ ४-२॥
एवं मुहुः सङ्गरविश्रमावुभौ पर्यायतो वर्षसहस्रपञ्चकम् ।
ग्लानिं विना चक्रतुरच्युतः क्लमाद्विश्रान्तिमिच्छन्नसुरौ जगाद तौ ॥ ४-३॥
श्रान्तेन भीतेन च बालकेन च प्रभुः पुमान्नैव करोति संयुगम् ।
मध्येरणं द्वौ कृतविश्रमौ युवामेकः करोम्येव निरन्तराहवम् ॥ ४-४॥
ज्ञात्वा हरिं श्रान्तमुभौ विदूरतः सन्तस्थतुर्विश्रमसौख्यवांस्ततः ।
त्वामेव तुष्टाव कृपातरङ्गिणीं सर्वेश्वरीं दैत्यजयाय माधवः ॥ ४-५॥
देवि प्रसीदैष रणे जितोऽस्म्यहं दैत्यद्वयेनाब्जभवं जिघांसुना ।
सर्वं कटाक्षैस्तव साध्यमत्र मां रक्षेति वक्तारमभाषथा हरिम् ॥ ४-६॥
युद्धं कुरु त्वं जहि तौ मया भृशं सम्मोहितौ वक्रदृशेत्ययं त्वया ।
सञ्चोदितो हृष्टमना महार्णवे तस्थौ रणायाययतुश्च दानवौ ॥ ४-७॥
भूयोऽपि कुर्वन् रणमच्युतो हसन् कामातुरौ ते मुखपद्मदर्शनात् ।
तावाह तुष्टोऽस्म्यतुलौ रणे युवां ददाम्यहं वां वरमेष वाञ्छितम् ॥ ४-८॥
तावूचतुर्विद्धि हरे न याचकावावां ददावस्तव वाञ्छितं वरम् ।
नासत्यवाचौ स्व इतीरितो हरिस्त्वां संस्मरन् शत्रुजिगीषयाऽब्रवीत् ॥ ४-९॥
मह्यं वरं यच्छतमद्य मे यतो वध्यौ युवां स्यातमितीरितावुभौ ।
दृष्ट्वाऽप्सु लीनं सकलं समूचतुस्त्वं सत्यवाङ्नौ जहि निर्जले स्थले ॥ ४-१०॥
अस्त्वेवमित्यादृतवाङ्मुदा हरिः स्वोरौ पृथावुन्नमिते जलोपरि ।
कृत्वाऽरिणा तच्छिरसी तदाऽच्छिनत्स्वच्छन्दमृत्यू तव मायया हतौ ॥ ४-११॥
द्वेषश्च रागश्च सदा ममाम्बिके दैत्यौ हृदि स्तोऽत्र विवेकमाधवः ।
आभ्यां करोत्येव रणं जयत्वयं तुभ्यं महाकालि नमः प्रसीद मे ॥ ४-१२॥
No comments:
Post a Comment