२ द्वितीयदशकः - हयग्रीवकथा
रणेषु दैत्येषु हतेषु देवाः पुरा प्रहृष्टाः सहदातृशर्वाः ।
यियक्षवो यज्ञपतिं विनीताः प्रपेदिरे विष्णुमनन्तवीर्यम् ॥ २-१॥
दृष्ट्वा च निद्रावशगं प्रभुं तमधिज्यचापाग्रसमर्पितास्यम् ।
आश्चर्यमापुर्विबुधा न कोऽपि प्राबोधयत्तं खलु पापभीत्या ॥ २-२॥
हरेस्तदानीमजसृष्टवम्र्या मुखार्पणाकुञ्चितचापमौर्वी ।
भग्ना धनुश्चार्जवमाप सद्यस्तेनाभवत्सोऽपि निकृत्तकण्ठः ॥ २-३॥
कायाच्छिरस्तूत्पतितं मुरारेः पश्यत्सु देवेषु पपात सिन्धौ ।
चेतः सुराणां कदने निमग्नं हाहेति शब्दः सुमहानभूच्च ॥ २-४॥
किमत्र कृत्यं पतिते हरौ नः कुर्मः कथं वेति मिथो ब्रुवाणान् ।
देवान् विधाताऽऽह भवेन्न कार्यमकारणं दैवमहो बलीयः ॥ २-५॥
ध्यायेत देवीं करुणार्द्रचित्तां ब्रह्माण्डसृष्ट्यादिकहेतुभूताम् ।
सर्वाणि कार्याणि विधास्यते नः सा सर्वशक्ता सगुणाऽगुणा च ॥ २-६॥
इत्यूचुषः प्रेरणया विधातुस्त्वामेव वेदा नुनुवुः सुराश्च ।
दिवि स्थिता देवगणांस्त्वमात्थ भद्रं भवेद्वो हरिणेदृशेन ॥ २-७॥
दैत्यो हयग्रीव इति प्रसिद्धो मयैव दत्तेन वरेण वीरः ।
वेदान् मुनींश्चापि हयास्यमात्रवध्यो भृशं पीडयति प्रभावात् ॥ २-८॥
दैवेन कृत्तं हरिशीर्षमद्य संयोज्यतां वाजिशिरोऽस्य काये ।
ततो हयग्रीवतया मुरारिर्दैत्यं हयग्रीवमरं निहन्ता ॥ २-९॥
त्वमेवमुक्त्वा सदयं तिरोधास्त्वष्ट्रा कबन्धेऽश्वशिरो मुरारेः ।
संयोजितं पश्यति देवसङ्घे हयाननः श्रीहरिरुत्थितोऽभूत् ॥ २-१०॥
दैत्यं हयग्रीवमहन् हयास्यो रणे मुरारिस्त्वदनुग्रहेण ।
सदा जगन्मङ्गलदे त्वदीयाः पतन्तु मे मूर्ध्नि कृपाकटाक्षाः ॥ २-११॥
No comments:
Post a Comment