३ तृतीयदशकः - महाकाल्यवतारः
जगत्सु सर्वेषु पुरा विलीनेष्वेकार्णवे शेषतनौ प्रसुप्ते ।
हरौ सुरारी मधुकैटभाख्यौ महाबलावप्सु विजह्रतुर्द्वौ ॥ ३-१॥
समाः सहस्रं यतचित्तवृत्ती वाग्बीजमन्त्रं वरदे जपन्तौ ।
प्रसादिताया असुरौ भवत्याः स्वच्छन्दमृत्युत्वमवापतुस्तौ ॥ ३-२॥
एकाम्बुधौ तौ तरलोर्मिमाले निमज्जनोन्मज्जनकेलिलोलौ ।
यदृच्छया वीक्षितमब्जयोनिं रणोत्सुकावूचतुरिद्धगर्वौ ॥ ३-३॥
पद्मासनं वीरवरोपभोग्यं न भीरुभोग्यं न वराकभोग्यम् ।
मुञ्चेदमद्यैव न यासि चेत्त्वं प्रदर्शय स्वं युधि शौर्यवत्त्वम् ॥ ३-४॥
इदं समाकर्ण्य भयाद्विरिञ्चः सुषुप्तिनिष्पन्दममोघशक्तिम् ।
प्रबोधनार्थं हरिमिद्धभक्त्या तुष्टाव नैवाचलदम्बुजाक्षः ॥ ३-५॥
अस्पन्दता त्वस्य कयापि शक्त्या कृतेति मत्वा मतिमान् विरिञ्चः ।
प्रबोधयैनं हरिमेवमुक्त्वा स्तोत्रैर्विचित्रैर्भवतीमनौषीत् ॥ ३-६॥
नुतिप्रसन्नाऽब्जभवस्य तूर्णं निःसृत्य विष्णोः सकलाङ्गतस्त्वम् ।
दिवि स्थिता तत्क्षणमेव देवो निद्राविमुक्तो हरिरुत्थितोऽभूत् ॥ ३-७॥
अथैष भीतं मधुकैटभाभ्यां विरिञ्चमालोक्य हरिर्जगाद ।
अलं भयेनाहमिमौ सुरारी हन्तास्मि शीघ्रं समरेऽत्र पश्य ॥ ३-८॥
एवं हरौ वक्तरि तत्र दैत्यौ रणोत्सुकौ प्रापतुरिद्धगर्वौ ।
तयोरविज्ञाय बलं मुरारिर्युद्धोद्यतोऽभूदजरक्षणार्थम् ॥ ३-९॥
बिभेमि रागादिमहारिपुभ्यो जेतुं यतिष्येऽहमिमान् सुशक्तान् ।
तदर्थशक्तिं मम देहि नित्यं निद्रालसो मा च भवानि मातः ॥ ३-१०॥
No comments:
Post a Comment