ENQUIRY geetanjaliglobalgurukulam

Tuesday, 3 January 2023

६ षष्ठदशकः - व्यासनारदसमागमः

 

६ षष्ठदशकः - व्यासनारदसमागमः

त्वदिच्छया देवि पुलस्त्यवाचा पराशराद्विष्णुपुराणकर्तुः । मुनेर्हरिर्लोकहिताय दीपाद्यथा प्रदीपोऽजनि कृष्णनामा ॥ ६-१॥ वेदं चतुर्धा व्यदधत्स कृष्णद्वैपायनो व्यास इति प्रसिद्धः । वेदान्तसूत्राणि पुराणजालं महेतिहासं च महांश्चकार ॥ ६-२॥ तपः प्रवृत्तः कलविङ्कपोतं मात्रा स संलालितमाश्रमान्ते । पश्यन्नधन्यामनपत्यतां स्वां सपुत्रभाग्यातिशयं च दध्यौ ॥ ६-३॥ सत्पुत्रलाभाय तपश्चिकीर्षुस्तीव्रं महामेरुसमीपमेत्य । आराधनीयः क इति क्षणं स चिन्ताऽऽतुरो लोकगुरुः स्थितोऽभूत् ॥ ६-४॥ श्रीनारदस्तत्र समागतस्त्वत्कृपाकटाक्षाङ्कुरवन्महर्षिः । अर्घ्यादिसम्पूजित आसनस्थो व्यासेन पृष्टः प्रहसन्निवाह ॥ ६-५॥ किं चिन्तया कृष्ण भजस्व देवीं कृपावती वाञ्छितदानदक्षा । अहेतुरेषा खलु सर्वहेतुर्निरस्तसाम्यातिशया निरीहा ॥ ६-६॥ सैषा महाशक्तिरिति प्रसिद्धा यदाज्ञया ब्रह्मरमेशरुद्राः । ब्रह्माण्डसर्गस्थितिसंहृतीश्च कुर्वन्ति काले न च ते स्वतन्त्राः ॥ ६-७॥ यस्याश्च ते शक्तिभिरेव सर्वकर्माणि कुर्वन्ति सुरासुराद्याः । मर्त्या मृगाः कृष्ण पतत्रिणश्च शक्तेर्विधेयाः क इहाविधेयः ॥ ६-८॥ प्रत्यक्षमुख्यैर्न च सा प्रमाणैर्ज्ञेया तपोभिः कठिनैर्व्रतैश्च । न वेदशास्त्राध्ययनेन चापि भक्त्यैव जानाति पुमान् महेशीम् ॥ ६-९॥ तामेव भक्त्या सततं भजस्व सर्वार्थदां कृष्ण तवास्तु भद्रम् । इत्यूचुषि ब्रह्मसुते गते स व्यासस्तपोऽर्थं गिरिमारुरोह ॥ ६-१०॥ इहास्मि पर्याकुलचित्तवृत्तिर्गुरुं न पश्यामि महत्तमं च । सन्मार्गतो मां नय विश्वमातः प्रसीद मे त्वां शरणं व्रजामि ॥ ६-११॥

devi narayaneeyam५ पञ्चमदशकः - सुद्युम्नकथा

 

५ पञ्चमदशकः - सुद्युम्नकथा

जाता सुतेला मनुसप्तमस्य संप्रार्थितोऽनेन मुनिर्वसिष्ठः । शम्भोः कटाक्षेण सुतां कुमारं चक्रे स कालेन बभूव राजा ॥ ५-१॥ सुद्युम्ननामा मृगयाविहारी गतो हयारूढ इलावृतं सः । स्त्रीत्वं पुनः प्राप्य सुतं हिमांशोर्वव्रे पतिं पुत्रमसूत चैषा ॥ ५-२॥ न्यवेदयत्सा गुरवे वसिष्ठायैषा कदाचिन्निजपुंस्त्वकामम् । तत्साधनार्थं हरमेव दध्यौ मुनिः प्रसन्नस्तमुवाच शम्भुः ॥ ५-३॥ इलावृतं मा पुरुषः प्रयातु प्रयाति चेत्सोऽस्त्वबला तदैव । एवं मया निश्चितमेव सौम्य गौर्याः प्रसादाय भवान् प्रियो मे ॥ ५-४॥ न पक्षभेदोऽत्र ममास्ति गौरी भवांश्च तृप्तौ भवतां मदीयौ । इतः परं तस्य मनोरपत्यं मासं पुमान् स्याद्वनिता च मासम् ॥ ५-५॥ एवं शिवोक्तेन मनोरपत्यं लब्ध्वा च पुंस्त्वं धरणीं शशास । स्त्रीत्वे च हर्म्येषु निनाय कालं जनो न चैनं नृपमभ्यनन्दत् ॥ ५-६॥ पुरूरवस्यात्मसुतेऽर्पयित्वा राज्यं विरक्तो वनमेत्य भूपः । श्रीनारदाल्लब्धनवार्णमन्त्रो भक्त्या स दध्यौ भवतारिणीं त्वाम् ॥ ५-७॥ सिंहाधिरूढामरुणाब्जनेत्रां त्वां सुप्रसन्नामभिवीक्ष्य नत्वा । स्तुत्वा च भक्त्या स्थिरपुंस्त्वमेष लेभेऽथ सायुज्यमवाप चान्ते ॥ ५-८॥ शौर्यं न वीर्यं न च पौरुषं मे नैवास्ति च स्त्रीसहजा तितिक्षा । मूढो न जानाम्यशुभं शुभं च देयं त्वया मे शुभमेव मातः ॥ ५-९॥ पश्यानि मातः प्रवरान्गुरूंस्ते कारुण्यतो मां सुपथा नयन्तु । सत्सङ्गसम्भावितचित्तवृत्तिर्भवानि ते देवि नमः प्रसीद ॥ ५-१०॥

devinarayaneeyam ४ चतुर्थदशकः - मधुकैटभवधः

 

४ चतुर्थदशकः - मधुकैटभवधः

त्वं तामसी सुप्तरमाधवाङ्गजा श्यामा रुचा मोहनताम्रलोचना । एकार्णवे घोररणोत्सुकान् हरिं दैत्यौ च तौ स्मेरमुखी समैक्षथाः ॥ ४-१॥ पश्यत्यजे बाहुरणं मुरारिणा कृत्वा मधुः श्रान्तिमवाप सत्वरम् । अभ्येत्य युद्धं कुरुते स्म कैटभः श्रान्ते च तस्मिन्नकृताहवं मधुः ॥ ४-२॥ एवं मुहुः सङ्गरविश्रमावुभौ पर्यायतो वर्षसहस्रपञ्चकम् । ग्लानिं विना चक्रतुरच्युतः क्लमाद्विश्रान्तिमिच्छन्नसुरौ जगाद तौ ॥ ४-३॥ श्रान्तेन भीतेन च बालकेन च प्रभुः पुमान्नैव करोति संयुगम् । मध्येरणं द्वौ कृतविश्रमौ युवामेकः करोम्येव निरन्तराहवम् ॥ ४-४॥ ज्ञात्वा हरिं श्रान्तमुभौ विदूरतः सन्तस्थतुर्विश्रमसौख्यवांस्ततः । त्वामेव तुष्टाव कृपातरङ्गिणीं सर्वेश्वरीं दैत्यजयाय माधवः ॥ ४-५॥ देवि प्रसीदैष रणे जितोऽस्म्यहं दैत्यद्वयेनाब्जभवं जिघांसुना । सर्वं कटाक्षैस्तव साध्यमत्र मां रक्षेति वक्तारमभाषथा हरिम् ॥ ४-६॥ युद्धं कुरु त्वं जहि तौ मया भृशं सम्मोहितौ वक्रदृशेत्ययं त्वया । सञ्चोदितो हृष्टमना महार्णवे तस्थौ रणायाययतुश्च दानवौ ॥ ४-७॥ भूयोऽपि कुर्वन् रणमच्युतो हसन् कामातुरौ ते मुखपद्मदर्शनात् । तावाह तुष्टोऽस्म्यतुलौ रणे युवां ददाम्यहं वां वरमेष वाञ्छितम् ॥ ४-८॥ तावूचतुर्विद्धि हरे न याचकावावां ददावस्तव वाञ्छितं वरम् । नासत्यवाचौ स्व इतीरितो हरिस्त्वां संस्मरन् शत्रुजिगीषयाऽब्रवीत् ॥ ४-९॥ मह्यं वरं यच्छतमद्य मे यतो वध्यौ युवां स्यातमितीरितावुभौ । दृष्ट्वाऽप्सु लीनं सकलं समूचतुस्त्वं सत्यवाङ्नौ जहि निर्जले स्थले ॥ ४-१०॥ अस्त्वेवमित्यादृतवाङ्मुदा हरिः स्वोरौ पृथावुन्नमिते जलोपरि । कृत्वाऽरिणा तच्छिरसी तदाऽच्छिनत्स्वच्छन्दमृत्यू तव मायया हतौ ॥ ४-११॥ द्वेषश्च रागश्च सदा ममाम्बिके दैत्यौ हृदि स्तोऽत्र विवेकमाधवः । आभ्यां करोत्येव रणं जयत्वयं तुभ्यं महाकालि नमः प्रसीद मे ॥ ४-१२॥

devi narayaneeyam३ तृतीयदशकः - महाकाल्यवतारः

 

३ तृतीयदशकः - महाकाल्यवतारः

जगत्सु सर्वेषु पुरा विलीनेष्वेकार्णवे शेषतनौ प्रसुप्ते । हरौ सुरारी मधुकैटभाख्यौ महाबलावप्सु विजह्रतुर्द्वौ ॥ ३-१॥ समाः सहस्रं यतचित्तवृत्ती वाग्बीजमन्त्रं वरदे जपन्तौ । प्रसादिताया असुरौ भवत्याः स्वच्छन्दमृत्युत्वमवापतुस्तौ ॥ ३-२॥ एकाम्बुधौ तौ तरलोर्मिमाले निमज्जनोन्मज्जनकेलिलोलौ । यदृच्छया वीक्षितमब्जयोनिं रणोत्सुकावूचतुरिद्धगर्वौ ॥ ३-३॥ पद्मासनं वीरवरोपभोग्यं न भीरुभोग्यं न वराकभोग्यम् । मुञ्चेदमद्यैव न यासि चेत्त्वं प्रदर्शय स्वं युधि शौर्यवत्त्वम् ॥ ३-४॥ इदं समाकर्ण्य भयाद्विरिञ्चः सुषुप्तिनिष्पन्दममोघशक्तिम् । प्रबोधनार्थं हरिमिद्धभक्त्या तुष्टाव नैवाचलदम्बुजाक्षः ॥ ३-५॥ अस्पन्दता त्वस्य कयापि शक्त्या कृतेति मत्वा मतिमान् विरिञ्चः । प्रबोधयैनं हरिमेवमुक्त्वा स्तोत्रैर्विचित्रैर्भवतीमनौषीत् ॥ ३-६॥ नुतिप्रसन्नाऽब्जभवस्य तूर्णं निःसृत्य विष्णोः सकलाङ्गतस्त्वम् । दिवि स्थिता तत्क्षणमेव देवो निद्राविमुक्तो हरिरुत्थितोऽभूत् ॥ ३-७॥ अथैष भीतं मधुकैटभाभ्यां विरिञ्चमालोक्य हरिर्जगाद । अलं भयेनाहमिमौ सुरारी हन्तास्मि शीघ्रं समरेऽत्र पश्य ॥ ३-८॥ एवं हरौ वक्तरि तत्र दैत्यौ रणोत्सुकौ प्रापतुरिद्धगर्वौ । तयोरविज्ञाय बलं मुरारिर्युद्धोद्यतोऽभूदजरक्षणार्थम् ॥ ३-९॥ बिभेमि रागादिमहारिपुभ्यो जेतुं यतिष्येऽहमिमान् सुशक्तान् । तदर्थशक्तिं मम देहि नित्यं निद्रालसो मा च भवानि मातः ॥ ३-१०॥

२ द्वितीयदशकः - हयग्रीवकथा

 

२ द्वितीयदशकः - हयग्रीवकथा

रणेषु दैत्येषु हतेषु देवाः पुरा प्रहृष्टाः सहदातृशर्वाः । यियक्षवो यज्ञपतिं विनीताः प्रपेदिरे विष्णुमनन्तवीर्यम् ॥ २-१॥ दृष्ट्वा च निद्रावशगं प्रभुं तमधिज्यचापाग्रसमर्पितास्यम् । आश्चर्यमापुर्विबुधा न कोऽपि प्राबोधयत्तं खलु पापभीत्या ॥ २-२॥ हरेस्तदानीमजसृष्टवम्र्या मुखार्पणाकुञ्चितचापमौर्वी । भग्ना धनुश्चार्जवमाप सद्यस्तेनाभवत्सोऽपि निकृत्तकण्ठः ॥ २-३॥ कायाच्छिरस्तूत्पतितं मुरारेः पश्यत्सु देवेषु पपात सिन्धौ । चेतः सुराणां कदने निमग्नं हाहेति शब्दः सुमहानभूच्च ॥ २-४॥ किमत्र कृत्यं पतिते हरौ नः कुर्मः कथं वेति मिथो ब्रुवाणान् । देवान् विधाताऽऽह भवेन्न कार्यमकारणं दैवमहो बलीयः ॥ २-५॥ ध्यायेत देवीं करुणार्द्रचित्तां ब्रह्माण्डसृष्ट्यादिकहेतुभूताम् । सर्वाणि कार्याणि विधास्यते नः सा सर्वशक्ता सगुणाऽगुणा च ॥ २-६॥ इत्यूचुषः प्रेरणया विधातुस्त्वामेव वेदा नुनुवुः सुराश्च । दिवि स्थिता देवगणांस्त्वमात्थ भद्रं भवेद्वो हरिणेदृशेन ॥ २-७॥ दैत्यो हयग्रीव इति प्रसिद्धो मयैव दत्तेन वरेण वीरः । वेदान् मुनींश्चापि हयास्यमात्रवध्यो भृशं पीडयति प्रभावात् ॥ २-८॥ दैवेन कृत्तं हरिशीर्षमद्य संयोज्यतां वाजिशिरोऽस्य काये । ततो हयग्रीवतया मुरारिर्दैत्यं हयग्रीवमरं निहन्ता ॥ २-९॥ त्वमेवमुक्त्वा सदयं तिरोधास्त्वष्ट्रा कबन्धेऽश्वशिरो मुरारेः । संयोजितं पश्यति देवसङ्घे हयाननः श्रीहरिरुत्थितोऽभूत् ॥ २-१०॥ दैत्यं हयग्रीवमहन् हयास्यो रणे मुरारिस्त्वदनुग्रहेण । सदा जगन्मङ्गलदे त्वदीयाः पतन्तु मे मूर्ध्नि कृपाकटाक्षाः ॥ २-११॥

devi narayaneeyam १ प्रथमदशकः - देवीमहिमा


१ प्रथमदशकः - देवीमहिमा

यस्मिन्निदं यत इदं यदिदं यदस्मात् उत्तीर्णरूपमभिपश्यति यत्समस्तम् । नो दृश्यते च वचसां मनसश्च दूरे यद्भाति चादिमहसे प्रणमामि तस्मै ॥ १-१॥ न स्त्री पुमान् न सुरदैत्यनरादयो न क्लीबं न भूतमपि कर्मगुणादयश्च । भूमंस्त्वमेव सदनाद्यविकार्यनन्तं सर्वं त्वया जगदिदं विततं विभाति ॥ १-२॥ रूपं न तेऽपि बहुरूपभृदात्तशक्ति- र्नाट्यं तनोषि नटवत्खलु विश्वरङ्गे । वर्षाणि ते सरसनाट्यकलाविलीना भक्ता अहो सहृदया क्षणवन्नयन्ति ॥ १-३॥ रूपानुसारि खलु नाम ततो बुधैस्त्वं देवीति देव इति चासि निगद्यमाना । देव्यां त्वयीर्यस उमा कमलाऽथ वाग् वा देवे तु षण्मुख उमापतिरच्युतो वा ॥ १-४॥ त्वं ब्रह्म शक्तिरपि धातृरमेशरुद्रैः ब्रह्माण्डसर्गपरिपालनसंहृतीश्च । राज्ञीव कारयसि सुभ्रु निजाज्ञयैव भक्तेष्वनन्यशरणेषु कृपावती च ॥ १-५॥ माता करोति तनयस्य कृते शुभानि कर्माणि तस्य पतने भृशमेति दुःखम् । वृद्धौ सुखं च तव कर्म न नापि दुःखं त्वं ह्येव कर्मफलदा जगतां विधात्री ॥ १-६॥ सर्वत्र वर्षसि दयामत एव वृष्ट्या सिक्तः सुबीज इव वृद्धिमुपैति भक्तः । दुर्बीजवद्व्रजति नाशमभक्त एव त्वं निर्घृणा न विषमा न च लोकमातः ॥ १-७॥ सर्वोपरीश्वरि विभाति सुधासमुद्र- स्तन्मध्यतः परिवृते विविधैः सुदुर्गैः । छत्रायिते त्रिजगतां भवती मणिद्वी- पाख्ये शिवे निजपदे हसिताननाऽऽस्ते ॥ १-८॥ यस्ते पुमानभिदधाति महत्त्वमुच्चै- र्यो नाम गायति शृणोति च ते विलज्जः । यश्चातनोति भृशमात्मनिवेदनं ते स स्वान्यघानि विधुनोति यथा तमोऽर्कः ॥ १-९॥ त्वां निर्गुणां च सगुणां च पुमान् विरक्तो जानाति किञ्चिदपि नो विषयेषु सक्तः । ज्ञेया भव त्वमिह मे भवतापहन्त्रीं भक्तिं ददस्व वरदे परिपाहि मां त्वम् ॥ १-१०॥

CLICK BELOW FOR RECITATION LESSONS
DEVINARAYANEEYAM LESSON DASAKAM1:1
DASAKAM1:2
DASAKAM1:3
DASAKAM1:4/1
DASAKAM1:4/2
Devi narayaneeyam lesson dasakam 1:5/1
Devi narayaneeyam lesson dasakam 1:5/2