५ पञ्चमदशकः - सुद्युम्नकथा
जाता सुतेला मनुसप्तमस्य संप्रार्थितोऽनेन मुनिर्वसिष्ठः ।
शम्भोः कटाक्षेण सुतां कुमारं चक्रे स कालेन बभूव राजा ॥ ५-१॥
सुद्युम्ननामा मृगयाविहारी गतो हयारूढ इलावृतं सः ।
स्त्रीत्वं पुनः प्राप्य सुतं हिमांशोर्वव्रे पतिं पुत्रमसूत चैषा ॥ ५-२॥
न्यवेदयत्सा गुरवे वसिष्ठायैषा कदाचिन्निजपुंस्त्वकामम् ।
तत्साधनार्थं हरमेव दध्यौ मुनिः प्रसन्नस्तमुवाच शम्भुः ॥ ५-३॥
इलावृतं मा पुरुषः प्रयातु प्रयाति चेत्सोऽस्त्वबला तदैव ।
एवं मया निश्चितमेव सौम्य गौर्याः प्रसादाय भवान् प्रियो मे ॥ ५-४॥
न पक्षभेदोऽत्र ममास्ति गौरी भवांश्च तृप्तौ भवतां मदीयौ ।
इतः परं तस्य मनोरपत्यं मासं पुमान् स्याद्वनिता च मासम् ॥ ५-५॥
एवं शिवोक्तेन मनोरपत्यं लब्ध्वा च पुंस्त्वं धरणीं शशास ।
स्त्रीत्वे च हर्म्येषु निनाय कालं जनो न चैनं नृपमभ्यनन्दत् ॥ ५-६॥
पुरूरवस्यात्मसुतेऽर्पयित्वा राज्यं विरक्तो वनमेत्य भूपः ।
श्रीनारदाल्लब्धनवार्णमन्त्रो भक्त्या स दध्यौ भवतारिणीं त्वाम् ॥ ५-७॥
सिंहाधिरूढामरुणाब्जनेत्रां त्वां सुप्रसन्नामभिवीक्ष्य नत्वा ।
स्तुत्वा च भक्त्या स्थिरपुंस्त्वमेष लेभेऽथ सायुज्यमवाप चान्ते ॥ ५-८॥
शौर्यं न वीर्यं न च पौरुषं मे नैवास्ति च स्त्रीसहजा तितिक्षा ।
मूढो न जानाम्यशुभं शुभं च देयं त्वया मे शुभमेव मातः ॥ ५-९॥
पश्यानि मातः प्रवरान्गुरूंस्ते कारुण्यतो मां सुपथा नयन्तु ।
सत्सङ्गसम्भावितचित्तवृत्तिर्भवानि ते देवि नमः प्रसीद ॥ ५-१०॥
No comments:
Post a Comment