१६ षोडशदशकः - सुदर्शनविवाहम्
श्रुत्वा वधूवाक्यमरं कुमारो हृष्टो भरद्वाजमुनिं प्रणम्य ।
आपृछ्य मात्रा सह देवि स त्वां स्मरन् रथेनाप पुरं सुबाहोः ॥ १६-१॥
स्वयंवराहूतमहीभुजां स सभां प्रविष्टो हतभीर्निषण्णः ।
कन्या कला पूर्णशशी त्वसावित्याहुर्जनास्तामभिवीक्षमाणाः ॥ १६-२॥
वधूश्च तद्दर्शनवर्धितानुरागा स्मरन्ती तव वाक्यसारम् ।
सभां नृपाणामजितेन्द्रियाणां न प्राविशत्सा पितृचोदिताऽपि ॥ १६-३॥
शङ्काकुलास्ते नृवरा बभूवुरुच्चैर्युधाजित्कुपितो जगाद- ।
मा दीयतां लोकहितानभिज्ञा वधूरशक्ताय सुदर्शनाय ॥ १६-४॥
बालोऽयमित्येष मयाऽऽश्रमे प्रागुपेक्षितः सोऽत्र रिपुत्वमेति ।
माऽयं च वध्वा व्रियतां वृतश्चेद्धन्यामिमं तां च हरेयमाशु ॥ १६-५॥
श्रुत्वा युधाजिद्वचनं नृपाला हितैषिणः केचिदुपेत्य सर्वम् ।
सुदर्शनं प्रोचुरथापि धीरः स निर्भयो नैव चचाल देवि ॥ १६-६॥
एकत्र पुत्री च सुदर्शनश्च युधाजिदन्यत्र बली सकोपः ।
तन्मध्यगो मंक्षु नृपः सुबाहुर्बद्धाञ्जलिः प्राह नृपान् विनम्रः ॥ १६-७॥
नृपा वचो मे शृणुतेह बाला नायाति पुत्री मम मण्डपेऽत्र ।
तत्क्षम्यतां श्वोऽत्र नयाम्यहं तां याताद्य वो विश्रममन्दिराणि ॥ १६-८॥
गतेषु सर्वेषु सुदर्शनस्तु त्वां संस्मरन् मातृहितानुसारी ।
सुबाहुना तन्निशि तेन दत्तां वधूं यथाविध्युदुवाह देवि ॥ १६-९॥
प्रातर्युधाजित्प्रबलो विवाहवार्तां निशम्यात्तरुषा ससैन्यः ।
सुदर्शनं मातृवधूसमेतं यात्रोन्मुखं भीमरवो रुरोध ॥ १६-१०॥
ततो रणे घोरतरे सुबाहुः क्लीं क्लीमितीशानि समुच्चचार ।
तत्राविरासीः समराङ्गणे त्वं सिंहाधिरूढा स्वजनार्तिहन्त्री ॥ १६-११॥
त्वन्नाम गायन् कथयन् गुणांस्ते त्वां पूजयंश्चात्र नयामि कालम् ।
स्वप्नेऽपि दृष्टा न मया त्वमम्बे कृपां कुरु त्वं मयि ते नमोऽस्तु ॥ १६-१२॥
No comments:
Post a Comment